श्री गणपति अथर्वशीर्ष
ॐ
marathi.strotra.com
॥ श्री गणपति अथर्वशीर्ष ॥
सर्व विघ्नांचे निवारण करणारे अद्भुत स्तोत्र | गणपती बाप्पाची कृपा
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।।१।।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।।१।।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।।२।।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।।२।।
ॐ शान्तिः शान्तिः शान्तिः ।।
॥ श्री गणेशाय नमः ॥
त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ।।३।।
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ।।३।।
ऋतं वच्मि । सत्यं वच्मि ।
अव त्वं माम् । अव वक्तारम् ।
अव श्रोतारम् । अव दातारम् ।
अव धातारम् । अवानूचानम् । अव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् ।
अवोत्तरात्तात् । अव दक्षिणात्तात् ।
अव चोर्ध्वात्तात् । अवाधरात्तात् ।
सर्वतो मां पाहि-पाहि समन्तात् ।।४।।
अव त्वं माम् । अव वक्तारम् ।
अव श्रोतारम् । अव दातारम् ।
अव धातारम् । अवानूचानम् । अव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् ।
अवोत्तरात्तात् । अव दक्षिणात्तात् ।
अव चोर्ध्वात्तात् । अवाधरात्तात् ।
सर्वतो मां पाहि-पाहि समन्तात् ।।४।।
त्वं वाङ्मयः । त्वं चिन्मयः ।
त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ।।५।।
त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ।।५।।
सर्व जगदिदं त्वत्तो जायते ।
सर्व जगदिदं त्वत्तस्तिष्ठति ।
सर्व जगदिदं त्वयि लयमेष्यति ।
सर्व जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक्पदानि ।।६।।
सर्व जगदिदं त्वत्तस्तिष्ठति ।
सर्व जगदिदं त्वयि लयमेष्यति ।
सर्व जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक्पदानि ।।६।।
त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः ।
त्वं देहत्रयातीतः । त्वं कालत्रयातीतः ।
त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ।।७।।

गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।
अनुस्वारः परतरः । अर्धेन्दुलसितम् ।
तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् । अकारो मध्यरूपम् ।
अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।
नादः सन्धानम् । संहिता सन्धिः ।
एषा गणेशविद्या । गणक ऋषिः ।
निचृद्गायत्रीच्छन्दः । गणपतिर्देवता ।
ॐ गं गणपतये नमः ।।८।।

॥ एकदन्ताय विद्महे । वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं च वरदं च हस्तैर्बिभ्राणं मूषकध्वजम् ।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।।९।।
रदं च वरदं च हस्तैर्बिभ्राणं मूषकध्वजम् ।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।।९।।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृत्याः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।।१०।।
आविर्भूतं च सृष्ट्यादौ प्रकृत्याः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।।१०।।
नमो व्रातपतये । नमो गणपतये ।
नमः प्रथमपतये । नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय ।
श्रीवरदमूर्तये नमो नमः ।।११।।
नमः प्रथमपतये । नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय ।
श्रीवरदमूर्तये नमो नमः ।।११।।
एतदथर्वशीर्ष योऽधीते । स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते । स सर्वतः सुखमेधते ।।१२।।
स सर्वविघ्नैर्न बाध्यते । स सर्वतः सुखमेधते ।।१२।।
सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानोऽपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विदयते ।।१३।।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानोऽपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विदयते ।।१३।।
इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति स पापीयान् भवति ।
सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ।।१४।।
यो यदि मोहाद्दास्यति स पापीयान् भवति ।
सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ।।१४।।
अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यात् न विभेति कदाचनेति ।।१५।।
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यात् न विभेति कदाचनेति ।।१५।।
यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति ।
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।
यः साज्यसमिभिर्यजति स सर्वं लभते स सर्वं लभते ।।१६।।
यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति ।
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।
यः साज्यसमिभिर्यजति स सर्वं लभते स सर्वं लभते ।।१६।।
अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति ।
महाविघ्नात्प्रमुच्यते । महादोषात्प्रमुच्यते । महापापात्प्रमुच्यते ।
स सर्वविद्भवति स सर्वविद्भवति । य एवं वेद इत्युपनिषत् ।।१७।।
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति ।
महाविघ्नात्प्रमुच्यते । महादोषात्प्रमुच्यते । महापापात्प्रमुच्यते ।
स सर्वविद्भवति स सर्वविद्भवति । य एवं वेद इत्युपनिषत् ।।१७।।
🌟 विशेष माहिती 🌟
🌿 पूजन साहित्य: गणपतीला दूर्वा, अक्षता, लाल फुले, सुगंध, धूप, दीप, नैवेद्य अर्पण करावा. गणपती बाप्पाला मोदक प्रिय आहे.
⏰ पठण वेळ: सायंकाळी पठण केल्यास दिवसभराचे पाप नष्ट होते. सकाळी पठण केल्यास रात्रीचे पाप नष्ट होते.
📿 लाभ: सर्व विघ्नांचे निवारण होते, सुख-समृद्धी प्राप्त होते, धर्म-अर्थ-काम-मोक्षाची प्राप्ती होते. गणपती बाप्पाची कृपा सदैव राहते.
🎯 विशेष: चतुर्थीच्या दिवशी उपवास करून हे स्तोत्र वाचल्यास विद्या प्राप्त होते. गणेश चतुर्थीला हे पठण अत्यंत फलदायी आहे.
🙏 श्री गणपती बाप्पाची विविध रूपे 🙏
श्री गणेश
विघ्नहर्ता
सिद्धिविनायक
भक्तवत्सल
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
॥ इती श्रीगणपत्यथर्वशीर्षोपनिषत्समाप्ता ॥

Comments
Post a Comment